नवग्रह स्तोत्र इन हिंदी

Navagraha Stotram in Hindi

नवग्रह स्तोत्र हिंदी में

जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् |
तमोऽरि सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ||1||

दधिशणखतुषाराभं क्शीरोदार्णवसंभवम् |
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ||2||

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् |
कुमारं शक्तिहस्तं च मणगलं प्रणमाम्यहम् ||3||

प्रियङगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् |
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ||4||

देवानां च ऋषीणां च गुरुं काज्ञ्चनसंनिभम् |
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ||5||

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् |
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ||6||

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् |
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ||7||

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् |
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ||8||

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ||9||

इति व्यास मुखोद्गीतम यः पठेत्सुसमाहितः |
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति ||10||

नर नारी नृपानाम च भवेत् दुःस्वप्ननाशनम |
ऐश्वर्यमतुलम तेषामारोग्यं पुष्टिवर्धनम ||11||

ग्रहनक्षत्रजाः पीड़ा स्तस्कराग्नि समुध्भवाः |
तास्सर्वाः प्रशमं यांति व्यासो ब्रूते नसंशयः ||12||

Navagraha Stotram Video in Hindi

Navagraha Stotram in Hindi PDF

Download Navagraha Stotram in Hindi PDF for great benefits, prosperity and success in your life.

Leave a comment